नहिवृतिवृषिव्यधिरुचिसहितनिषु क्वौ

6-3-116 नहिवृतिवृषिव्यधिरुचिसहितनिषु क्वौ उत्तरपदे संहितायाम्

Kashika

Up

index: 6.3.116 sutra: नहिवृतिवृषिव्यधिरुचिसहितनिषु क्वौ


नहि वृति वृषि व्यधि रुचि सहि तनि इत्येतेषु क्विप्रत्ययान्तेषु उत्तरपदेषु पूर्वपदस्य दीर्घो भवति संहितायां विषये। नहि उपानत्। परीणत्। वृति नीवृत्। उपावृत्। वृषि प्रावृट्। उपावृट्। व्याधि मर्मावित्। दृदयावित्। श्ववित्। रुचि नीरुक्। अभिरुक्। सहि ऋतीषट्। तनि तरीतत्। गमः क्वौ 6.4.40 इति गमदीनम् इष्यते। ततः तनोतेरप्यनुनासिकलोपः। क्वौ इति किम्? परिणहनम्।

Siddhanta Kaumudi

Up

index: 6.3.116 sutra: नहिवृतिवृषिव्यधिरुचिसहितनिषु क्वौ


क्विबन्तेषु एषु परेषु पूर्वपदस्य दीर्घः । उपानत् । नीवृत् । प्रावृट् । मर्मावित् । नीरुक् । अभीरुक् । ऋतीषट् । परीतत् । क्वौ इति किम् । परिणहनम् । विभाषा पुरुषे <{SK1032}> इत्यतो मण्डूकप्लुत्या विभाषानुवर्तते सा च व्यवस्थिता । तेन गतिकारकयोरेव । नेह । पटुरुक् । तिग्मरुक् ॥

Laghu Siddhanta Kaumudi

Up

index: 6.3.116 sutra: नहिवृतिवृषिव्यधिरुचिसहितनिषु क्वौ


क्विबन्तेषु पूर्वपदस्य दीर्घः । उपानत्, उपानद् । उपानहौ । उपानत्सु ॥ क्विन्नन्तत्वात् कुत्वेन घः । उष्णिक्, उष्णिग् । उष्णिहौ । उष्णिग्भ्याम् ॥ द्यौः । दिवौ । दिवः । द्युभ्याम् ॥ गीः । गिरौ । गिरः ॥ एवं पूः ॥ यतस्रः ॥ चतसृणाम् ॥ का । के । काः । सर्वावत् ॥

Balamanorama

Up

index: 6.3.116 sutra: नहिवृतिवृषिव्यधिरुचिसहितनिषु क्वौ


नहिवृतिवृषिव्यधिरुचिसहितनिषु क्वौ - नहिवृति । उपानदिति । 'णह बन्धने' 'णो नः' सम्पदादित्वात्कर्मणि क्विप् । उपनह्रते इत्युपानत् । पूर्वपदस्य दीर्घः ।नहो धः॑ । निवर्तते इति नीवृत् । 'वृतु वर्तने' कर्तरि क्विप्, दीर्घः । प्रवर्षतीति प्रावृट् ।वृषु सेचने॑क्विप् । दीर्घः ।नहो धः॑ । निवर्तते इति नीवृत् । 'वृतु वर्तने' कर्तरि क्विप्, दीर्घः । प्रवर्षतीति प्रावृट् । 'वृषु सेचने' क्विप् । दीर्घः । मर्माणि विध्यतदीति मर्मावित् । क्विप् ।ग्रहिज्ये॑ति संप्रसारणम् । उपपदसमासः, सुब्लुक्, नलोपः, दीर्घः । निरोचते इचि नीरुक्,रुच दीप्तौ॑क्विप्, दीर्घः । ऋति सहते इति ऋतीषट् ।षह मर्षणे॑क्विप् । दीर्घः,हो ढः॑, 'सात्पदाद्योः' इति षत्वनिषेधे प्राप्तेपूर्वपदा॑दिति षत्वमिति हरदत्तः । सुषामादित्वादित्यपरे । परितनोतीति परीतत् । 'तनु विस्तारे' क्विप्, 'गमः क्वौ' इत्यत्र गमादीनामित्युपसङ्ख्यानादनुनासिकलोपः । तुक्, दीर्घः । अथ पटुरुक्, तिग्मरुगित्यादौ दीर्घमाशङ्क्याह विभाषेति । पटुरुगिति । पटु रोचत इति विग्रहः । उभयत्र कर्तरि क्विप् । पूर्वपदयोर्गतिकारकान्यतरत्वाऽभावान्न दीर्घः । व्यवस्थिविभाषाश्रयणे व्याख्यानमेव शरणम् ।

Padamanjari

Up

index: 6.3.116 sutra: नहिवृतिवृषिव्यधिरुचिसहितनिषु क्वौ


उपनह्यते इत्युपानत्, सम्पदादित्वात्कर्मणि क्वप्, नहो धः । परीणदिति । उपसर्गादसमासेऽपि णत्वम् । नीवृदीति । नीवृदादौ कर्तरि क्विप्, व्यधेर्ग्रहिज्यादिसम्प्रसारणम् । ऋतीषाहमिति । पूर्वपदात् इति षत्वम् । परीतदिति । अनुदातेति लोपस्य क्ङ्ज्झिल्निमितकत्वात् क्वौ च तदभावाद् गमादीनामितीत्यनुनासिकलोपे तुक् ॥