6-3-115 कर्णे लक्षणस्य अविष्टाष्टपञ्चमणिभिन्नच्छिन्नच्छिद्रस्रुवस्वस्तिकस्य उत्तरपदे संहितायाम्
कर्णशब्द उत्तरपदे लक्षणवाचिनो दीर्घो भवति विष्ट अष्टन् पञ्चन् मणि भिन्न छिन्न छिद्र स्रुव स्वस्तिक इत्येतान् वर्जयित्वा। दात्राकर्णः। द्विगुणाकर्णः। त्रिगुणाकर्णः। द्व्यङ्गुलाकर्णः। अङ्गुलाकर्णः। यत् पशूनां स्वामिविशेषसंबन्धज्ञापनार्थं दात्राकारादि क्रियते, तदिह लक्षणं गृह्यते। लक्षणस्येति किम्? शोभनकर्णः। अविष्टादीनामिति किम्? विष्टकर्णः। अष्टकर्णः। पञ्चकर्णः। मणिकर्णः। भिन्नकर्णः। छिन्नकर्णः। छिद्रकर्णः। स्रुवकर्णः। स्वस्तिककर्णः॥
कर्णशब्दे परे लक्षणवाचकस्य दीर्घः । द्विगुणाकर्णः । लक्षणस्य किम् । शोभनकर्णः । अविष्टादीनां किम् । विष्टकर्णः । अष्टकर्णः । पञ्चकर्णः । मणिकर्णः । भिन्नकर्णः । छिन्नकर्णः । छिद्रकर्णः । स्रुवकर्णः । स्वस्तिककर्णः ॥
<<कर्णे लक्षणस्याविष्टाष्टपञ्चमणिभिन्न- छिन्नछिद्रस्रुवस्वस्तिकस्य>> - कर्णै लक्षणस्य । दीर्घविधिः, 'ढ्रलोपे' इत्यतस्तदनुवृत्तेः । यत्पशूनां स्वामिविशेषसंबन्धज्ञानार्थं दात्रशूलचक्राद्याकारचिन्हं क्रियते तल्लक्षणशब्देन विवक्षितम् । तेन 'लम्बकर्ण' इत्यादौ नातिप्रसङ्गः । द्विगुणाकर्ण इति । द्विगुणरेखौ कर्णौ यस्येति विग्रहः । 'अष्टकर्ण' इत्यादेरष्टसङ्ख्यालिपिचिह्नकर्ण इति वा ।