पथि च च्छन्दसि

6-3-108 पथि च छन्दसि उत्तरपदे कोः का विभाषा कवं

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

पथिशब्द उत्तरपदे छन्दसि विषये कोः कवं का इत्येतावादेशौ भवतो विभाषा। कवपथः, कापथः, कुपथः॥

Siddhanta Kaumudi

Up

पथिशब्दे उत्तरपदे कोः कवं कादेशश्च । कवपथः । कापथः । कुपथः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<पथि च च्छन्दसि>> - इत्यकारलोपे प्र च् अस् इति स्थिते — चौ । अन्चुधातोरुकारान्तस्य लुप्तनकाराऽकारस्य चाविति सप्तम्यन्तम् । 'ढ्रलोपे' इत्यतःपूर्वस्य दीर्घोऽणः॑ इत्यनुवर्तते । तदाह — लुप्तेति । प्राचेति । यद्यपि 'अचः' इत्यल्लोपस्य 'चौ' इति दीर्घस्य चाऽभावेऽपि सवर्णदीर्घेण 'प्राच' इति सिध्यति, तथापि 'प्रतीचः' इत्याद्यर्थं सूत्रम् । प्राग्भ्यामिति । प्राच्-भ्याम् इति स्थिते 'चोः कुः' इति कुत्वं,क्विन्प्रत्ययस्य कुः॑ इति कुत्वस्याऽसिद्धत्वात् । इत्यादीति । प्राग्भिः । प्राचे । प्राचः २ । प्राचोः २ । प्राक्षु । प्रत्यङ्ङिति । प्रतिपूर्वादञ्चेः क्विन्, यण्, 'अनिदिताम्' इति नलोपः, सुबुत्पत्तिः ।उगिदचा॑मिति नुम्, हल्ङ्यादिना सुलोपः, चकारस्य संयोगान्तलोपः, नुमो नकारस्यक्विन्प्रत्ययस्ये॑ति कुत्वेन ङकार इति भावः । प्रत्यञ्चाविति । प्रत्यच्-औ इति स्थितेउगिदचा॑मिति नुमि तन्नकारस्य अनुस्वारे तस्य परसवर्णो ञकार इति भावः । एवं प्रत्यञ्चः । प्रत्यञ्चम्, प्रत्यञ्चौ ।ननु प्रति-अन्च् इति स्थिते अन्तरङ्गत्वाद्यणि कृतेअनिदिता॑मिति नलोपे प्रत्यच् इत्यस्माच्छसि असर्वनामस्थानत्वात्उगिदचा॑मिति नुमभावे 'अचः' इत्यकारलोपे 'चौ' इति दीर्घो न भवति, पूर्वस्याऽणोभावात्, ततश्च प्रत्य्चेति स्यादित्यत आह — अचेति लोपस्येत्यादि । 'अचः' इति लोपेन यण्निमित्तस्याऽकारस्य विनाशोन्मुखत्वादिह यण्न भवति । ततश्च प्रति अच् अस् इति स्थिते 'अचः' इत्यकारलोपे सति 'चौ' इति इकारस्य दीर्घे 'प्रतीच' इति रूपां निर्बाधम् । एतदर्थमेव 'अचः' इति 'चौ' इति चारब्धम् ।प्राचः पश्ये॑त्यत्र अल्लोपदीर्घयोरभावेऽपि सवर्णदीर्घेणैव रूपसिद्धेः । भाष्ये तु 'चौ' इत्यारम्भसामर्थ्यादेवात्र यण् नेति समाहितम् । न चप्राचः पश्ये॑त्यादौ सावकाशत्वमिति वाच्यं, सवर्णदीर्घेणैव निर्वाहात् ।वार्णादाङ्गं बलीयः॑ इति परिभाषया 'अचः' इत्यल्लोपे सति सवर्णदीर्घाऽसिद्धेरित्यन्यत्र विस्तरः । अद्स् अञ्च् इति स्थिते इति । क्विनि उपपदसमासे सुब्लुकि च सति अदस् अञ्च् इति स्थिते 'अनिदिताम्' इति नलोपे कृते अदस् अच् इति स्थिते सतीत्यर्थः ।

Padamanjari

Up