कवं चोष्णे

6-3-107 कवं च उष्णे उत्तरपदे कोः का विभाषा

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

उष्णशब्द उत्तरपदे कोः कवमित्ययमादेशो भवति, का च विभाषा। कवोष्णम्, कोष्णम्, कदुष्णम्॥

Siddhanta Kaumudi

Up

उष्णशब्दे उत्तरपदे कोः कवं का च वा स्यात् । कवोष्णम् । कोष्णम् । कदुष्णम् ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<कवं चोष्णे>> - कवं चोष्णे । कवं का च वेति । विभाषेत्यनुवृत्तेरिति भावः । उभयाऽभावे कदादेशः । तथा च रूपत्रयम् । तदाह — कोष्णं कवोष्णं कदुष्णमिति ।

Padamanjari

Up

च्छन्दस्यन्यत्रापि दृश्यते - न कवादिभ्यो न हि ते पृणन्तीति, कवाशब्दोऽपि दृश्यते केवलः - कवातिर्यंदि वोपतिष्ठेतेति, ईषतिर्थङ्त्यिर्थः ॥