विभाषा पुरुषे

6-3-106 विभाषा पुरुषे उत्तरपदे कोः का

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

पुरुषशब्द उत्तरपदे विभाषा कोः का इत्ययमादेशो भवति। कापुरुषः, कुपुरुषः। अप्राप्तविभाषेयम्। ईषदर्थे तु पूर्वविप्रतिषेधेन नित्यं का भवति। ईषत्पुरुषः कापुरुषः॥

Siddhanta Kaumudi

Up

कापुरुषः । कुपुरुषः । अप्राप्तविभाषेयम् । ईषदर्थे हि पूर्वविप्रतिषेधान्नित्यमेव । ईषत्पुरुषः कापुरुषः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<विभाषा पुरुषे>> - विभाषा पुरुषे । 'कोः का इत्यादेश' इति शेषः । अप्राप्तविभाषेति ननु कोरीषदर्थकत्वे सति 'ईषदर्थे' इति नित्ये कादेशे प्राप्ते विकल्पसंभव इत्यत आह — ईषदर्थे हीति । वृत्त्यनुसारेणेदमुक्तं, पूर्वविप्रतिषेधस्य भाष्यानुक्तत्वात् ।

Padamanjari

Up

अप्राप्तविभाषेयमिति । ईषदर्थे इत्यस्य निवृतत्वात् । नन्वेवं सत्युभयत्रविभाषेयं युक्ता, ईषदर्थे प्राप्तत्वात्, अन्यत्र चाप्राप्तत्वाद् अत आह - ईषदर्थे त्विति । ईषदर्थे च इत्यस्यावकाशः - कामधुरमिति, विभाषा पुरुषे इत्यस्यावकाशः - कुत्सितः पुरुषः कापुरुषः ईषत्पुरुष इत्यत्रोभयप्रसङ्गे पूर्वविप्रतिषेधः ॥