ईषदर्थे

6-3-105 ईषदर्थे उत्तरपदे कोः का

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

ईषदर्थे वर्तमानस्य कोः का इत्ययमादेशो भवति। कामधुरम्। कालवणम्। अजादावपि परत्वात् कादेश एव भवति। काम्लम्। कोष्णम्॥

Siddhanta Kaumudi

Up

ईषज्जलं काजलम् । अजादावपि परत्वात्कादेशः । काम्लः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<ईषदर्थे>> - ईषदर्थे । ईषदर्थे विद्यमानस्य कोः 'का' इत्यादेशः स्यादित्यर्थः । काजलमिति । ईषत् — जलमिति विग्रहेकुगतीति समासः । नित्यसमासत्वादस्वपदविग्रहप्रदर्शनम् । कुत्सित अम्लः काम्ल इत्यत्रकोः कत्तत्पुरुषेऽची॑ति कदादेशमाशङ्ख्याह — अजादावपीति ।

Padamanjari

Up

कामधुरमिति । कुगतीति समासः । कुः पापार्थः इत्येततु प्रायिकम् । काम्लमिति । ननु चात्र कोः कतत्पुरुषेऽचि इति कद्भावः प्राप्नोति, अस्य त्वनजादिरवकाशः तत्राह - अजादावपीति ॥