6-3-104 का पथ्यक्षयोः उत्तरपदे कोः
index: 6.3.104 sutra: का पथ्यक्षयोः
पथिनक्ष इत्येतयोरुत्तरपदयोः कोः का इत्ययमादेशो भवति। कापथः। काक्षः।
index: 6.3.104 sutra: का पथ्यक्षयोः
कापथम् । काक्षः । अक्षशब्देन तत्पुरुषः । अक्षिशब्देन बहुव्रीहिर्वा ॥
index: 6.3.104 sutra: का पथ्यक्षयोः
का पथ्यक्षयोः - का पथ्यक्षयोः । पथिन्, अक्ष — अनयोः परतः कोः 'का' इत्यादेशः स्यादित्यर्थः । कापथमिति । कुत्सितः पन्था इति विग्रहः ।कुगती॑ति समासः ।ऋक्पू॑रित्यप्रत्ययः ।पथः सङ्ख्याव्ययादे॑रिति नपुंसकत्वम् । 'कापथ' इति पाठे तु बहुव्रीहिः । काऽक्षशब्दे समासं दर्शयति — अक्षशब्देन तत्पुरुष इति । कुत्सितमक्षमिन्द्रियमिति विग्रहेकुगती॑ति समास इत्यर्थः । अक्षिशब्देनेति । कुत्सिते अक्षिणी यस्येति विग्रहेबहुव्रीहौ सक्थ्यक्ष्णो॑रिति षजित्यर्थः ।
index: 6.3.104 sutra: का पथ्यक्षयोः
अनीषदर्थ आरम्भः । कुत्सितः पन्थाः कापथः । पूर्ववत्समासान्तः । काक्ष इति । अक्षशब्देन तत्पुरुषः, अक्षिशब्देन बहुव्रीहिर्वा, बहुव्रीहौ सक्थ्यक्ष्णोः इति षच् ॥