6-3-102 रथवदयोः च उत्तरपदे कोः कत्
रथ वद इत्येतयोश्चोत्तरपदयोः कोः कदित्ययमादेशो भवति। कद्रथः। कद्वदः॥
कद्रथः । कद्वदः ॥
<<रथवदयोश्च>> - रथवदयोश्च । 'कोः कत्तत्पुरुषे' इति शेषः । कद्रथः कद्वद इति ।कुगती॑ति समासः । वदतीति वदः । कुत्सितो वदः कद्वदः ।