6-3-101 कोः कत् तत्पुरुषे अचि उत्तरपदे
कु इत्येतस्य कदित्ययमादेशो भवति तत्पुरुषे समासेऽजादावुत्तरपदे। कदजः। कदश्वः। कदुष्ट्रः। कदन्नम्। तत्पुरुष इति किम्? कूष्ट्रो राजा। अचीति किम्? कुब्राह्मणः। कुपुरुषः॥ कद्भावे त्रावुपसंख्यानम्॥ कुत्सितास्त्रयः कत्त्रयः॥
अजादावुत्तरपदे । कुत्सितोऽश्वः कदश्वः । कदन्नम् । तत्पुरुषे किम् । कूष्ट्रो राजा ।<!त्रौ च !> (वार्तिकम्) ॥ कुत्सितास्त्रयः कत्त्रयः ॥
<<कोः कत् तत्पुरुषेऽचि>> - कोः कत्तत्पुरुषेऽचि ।क॑दिति च्छेदः । शेषपूरणेन सूत्रं व्याचष्टे — अजादावुत्तरपदे इति । कदआः कदन्नमिति ।कुगती॑ति समासः । कूष्ट्रो राजेति । कुत्सित उष्ट्रो यस्येति बहुव्रीहित्वान्न कदादेशः । त्रौ चेति । त्रिशब्दे परे कदादेशो वक्तव्य इत्यर्थः । उत्तरपदस्याऽजादित्वाऽभावाद्वचनम् ।
उदाहरणेषु कुगतिप्रादयः इति समासः । कूष्ट्र इति । एतदेव तत्पुरुषग्रहणं ज्ञापकमस्मिनप्रकरणेऽप्रतिपदोक्तोऽपि समासो गृह्यत इति, तेन ज्योतिर्जनपद इति सभावो बहुव्रीहावपि भवति । त्रावुपसंख्यानमिति । कत्र्यादिभ्यः इति वचनात्सिद्धम् ॥