परादिश्छन्दसि बहुलम्

6-2-199 परादिः छन्दसि बहुलम् उत्तरपदात् अन्तः

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

छन्दसि विषये परादिरुदात्तो भवति बहुलम्। परशब्देनात्र सक्थशब्द एव गृह्यते। अ॒ञ्जि॒सक्थ॑मालभेत। त्वा॒ष्ट्रौ लो॑मशस॒क्थौ (तै०सं० ५.५.२३.१)। ऋ॒जु॒बाहुः॑। वा॒क्पतिः॑। चि॒त्पतिः॑।

परादिश्च परान्तश्च पूर्वान्तश्चापि दृश्यते।

पूर्वादयश्च दृश्यन्ते व्यत्ययो बहुलं ततः॥

परादिरुदाहृतः। परान्तः॥ अन्तोदात्तप्रकरणे त्रिचक्रादीनां छन्दस्युपसंख्यानम्॥ त्रि॒ब॒न्धु॒रेण॑। त्रि॒वृ॒ता॒ रथे॑न त्रिच॒क्रेण॑ (ऋ० १.११८.२)। पूर्वान्तः॥ पूर्वपदान्तोदात्त प्रकरणे मरुद्वृधादीनां छन्दस्युपसंख्यानम्॥ म॒रुद्वृ॒धः (ऋ० ३.१३.६)। पूर्वादिः॥ पूर्वपदाद्युदात्तप्रकरणे दिवोदासादीनां छन्दस्युपसंख्यानम्॥ दिवो॑दासाय सामगाय ते इत्येवमादि सर्वं संगृहीतं भवति॥

॥ इति श्रीवामनविरचितायां काशिकायां वृत्तौ षष्ठाध्यायस्य द्वितीयः पादः॥

Siddhanta Kaumudi

Up

छन्दसि परस्य सक्थशब्दस्यादिरुदात्तो वा । अजिसक्थमालभेत । अत्र वार्तिकम् ।<!परादिश्च परान्तश्च पूर्वान्तश्चापि दृश्यते !> (वार्तिकम्) ॥ पूर्वादयश्च दृश्यन्ते व्यत्ययो बहुलं ततः ॥ इति परादिः । तुविजाता उरुक्षया (तु॒वि॒जा॒ता उ॑रु॒क्षया॑) । परान्तः । नि येन मुष्टिहत्यया (नि येन॑ मुष्टिह॒त्यया॑) । यस्त्रिचक्रः (यस्त्रि॑च॒क्रः) । पूर्वान्तः । विश्वायुर्धेहि (वि॒श्वायु॑र्धेहि) ॥ इति समासस्वराः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

Padamanjari

Up

परादिरिति । परशब्देनात्र सक्थशब्द एव गृह्यत इति । तस्यैव पूर्वसूत्रे सन्निहितत्वात् । यद्येवम्, परग्रहणमनर्थकम्, प्कृतो हि सक्थशब्दोऽनुवर्तिष्यते नैतदस्तिः बहुव्रीहेरपि प्रकृतिस्यानुवृत्तिः स्यात्, तस्याद्यौदातत्वं शङ्क्येत, विभाषाग्रहणे प्रकृते बहुलग्रहणस्य प्रयोजनमन्यदपि यथा स्यादिति । ऋजुवाहुरिति । बहुव्रीहिः । वाक्यतिश्चित्पतिरिति । षष्ठीसमासौ । अत्र भाषाविषये पत्यावैश्वर्ये इत्यस्य न भूवाक्चिद्दिधिषु इति प्रतिषेधे समासान्तोदातत्वं भवति । बहुलग्रहकणसिद्धमर्थं श्लोकेन दर्शयति - परादिश्च परान्तश्चेति । पूर्वपर शब्दाभ्यां पूर्वोतरपदयोर्ग्रहणम्। यत एवं परादिप्रभृतिरुदातश्च्छन्दसि दृश्यते, ततो हेतोर्बहुलं स्वरव्यत्यय उक्तः । स्वरव्यत्ययार्थं बहुलग्रहणं कृतमित्यर्थः ॥