6-2-99 पुरे प्राचाम् पूर्वपदम् अन्तः
पुरशब्द उत्तरपदे प्राचां देशे पूर्वपदमन्तोदात्तं भवति। ल॒ला॒टपु॑रम्। का॒ञ्चीपु॑रम्। शि॒व॒द॒त्तपु॑रम्। का॒र्णिपु॑रम्। ना॒र्मपु॑रम्। प्राचामिति किम्? शि॒व॒पु॒रम्॥
देवदत्तपुरम् । नान्दीपुरम् । प्राचां किम् । शिवपुरम् ॥