6-2-98 सभायां नपुंसके पूर्वपदम् अन्तः
सभाशब्द उत्तरपदे नपुंसकलिङ्गे समासे पूर्वपदमन्तोदात्तं भवति। गो॒पा॒लस॑भम्। प॒शु॒पा॒लस॑भम्। स्त्रीस॑भम्। दा॒सीस॑भम्। सभायामिति किम्? ब्रा॒ह्म॒ण॒से॒नम्। नपुंसक इति किम्? रा॒ज॒स॒भा ब्रा॒ह्म॒ण॒स॒भा। सभायां प्रतिपदोक्त मिह नपुंसकलिङ्गं गृह्यत इति र॒म॒णीय॑सभं ब्राह्मणकु॒लम् इत्यत्र न भवति॥
सभायां परतो नपुंसकलिङ्गे समासे पूर्वमन्तोदात्तम् । गोपालसभम् । स्त्रीसभम् । सभायां किम् । ब्राह्मणसेनम् । नपुंसके किम् । राजसभा प्रतिपदोक्तनपुंसकग्रहणान्नेह । रमणीयसभम् । ब्राह्मणकुलम् ॥
गोपालसभादौ अशाला चेति नपुंसकत्वम् । रमणीयसभमिति । अत्राभिधेयवशान्नपुंसकत्वम्, न प्रतिपदोक्तम् ॥