अरिष्टगौडपूर्वे च

6-2-100 अरिष्टगौडपूर्वे च पूर्वपदम् अन्तः पुरे

Kashika

Up

index: 6.2.100 sutra: अरिष्टगौडपूर्वे च


अरिष्ट गौड इत्येवं पूर्वे समासे पुरशब्दे उत्तरपदे पूर्वपदमन्तोदात्तं भवति। अरिष्टपुरम्। गौडपुरम्। पूर्वग्रहणं किम्? इह अपि यथा स्यात्। अरिष्टश्रितपुरम्। गौडभृत्यपुरम्।

Siddhanta Kaumudi

Up

index: 6.2.100 sutra: अरिष्टगौडपूर्वे च


पुरे परे अरिष्टगौडपूर्वसमासे पूर्वमन्तोदात्तम् । अरिष्टपुरम् । गौडपुरम् । पूर्वग्रहणं किम् । इहापि तथा स्यात् । अरिष्टाश्रितपुरम् । गौडभृत्यपुरम् ।

Padamanjari

Up

index: 6.2.100 sutra: अरिष्टगौडपूर्वे च


पूर्वग्रहणं किमिति । अरिष्टगौडयोरिति वक्तव्यम् इति प्रश्नः । इहापि यथा स्यादिति । पूर्वग्रहणे हि सति वहुव्रीहिर्लभ्यते - अरिष्टगौहौ पूर्वौ यस्मिन्समास इति । तेनारिष्टाश्रितपुरम्, गौडभृत्यपुरमित्यत्रापि पूर्वपदमान्तोदातं भवति । असति तु पूर्वग्रहणे श्रितः भृत्यशब्दाभ्यां व्यवहितत्वादपूर्वपदत्वादरिष्टगौडयोस्तावन्न स्यात् समुदाययोश्च सूत्रेऽनुपातत्वात् ॥