द्विगौ क्रतौ

6-2-97 द्विगौ क्रतौ पूर्वपदम् अन्तः

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

द्विगावुत्तरपदे क्रतुवाचिनि समासे पूर्वपदमन्तोदात्तं भवति। ग॒र्गत्रि॑रात्रः। च॒र॒कत्रि॑रात्रः। कु॒सु॒र॒वि॒न्दस॑प्तरात्रः। गर्गाणां त्रिरात्रो ग॒र्गत्रि॑रात्रः। द्विगाविति किम्? अ॒ति॒रा॒त्रः। अचश्चित्त्वादन्तोदात्तः। क्रताविति किम्? बि॒ल्व॒स॒प्त॒रा॒त्रः। बिल्वशतस्य बिल्वहोमस्य वा सप्तरात्रो बिल्वसप्तरात्रः॥

Siddhanta Kaumudi

Up

द्विगावुत्तरपदे क्रतुवाचिनि समासे पूर्वमन्तोदात्तम् । गर्गत्रिरात्रः । द्विगौ किम् । अत्रिरात्रः । क्रतौकिम् । बिल्वहोमस्य सप्तरात्रो बिल्वसप्तरात्रः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

Padamanjari

Up

गर्गत्रिरात्रादयः षष्ठीसमासाः । तिसृणां रात्रीणां समाहारस्त्रिरात्रः, अहः सर्व इत्यादिनाच समासान्तः । अतिरात्र इति । रात्रिमतिक्रान्त इति प्रादिसमासः ॥