उदकेऽकेवले

6-2-96 उदके अकेवले पूर्वपदम् अन्तः

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

अकेवलं मिश्रम्, तद्वाचिनि समास उदकशब्द उत्तरपदे पूर्वपदमन्तोदात्तं भवति। गुडमिश्रमुदकं गु॒डोद॑कम्, गु॒डो॑दकम्। ति॒लोद॑कम्, ति॒लो॑दकम्। स्वरे कृत एकादेशः <<स्वरितो वानुदात्ते पदादौ>> ८.२.६ इति पक्षे स्वरितो भवति। अकेवल इति किम्? शी॒तो॒द॒कम्। उ॒ष्णो॒द॒कम्॥

Siddhanta Kaumudi

Up

अकेवलं मिश्रं तद्वाचिनि समासे उदके परे पूर्वमन्तोदात्तम् । गुहोदकम् । स्वरे कृतेऽत्र एकादेशः । स्वरितो वानुदात्तेपदादौ <{SK3659}> इति पक्षे स्वरितः । अकेवले किम् । शीतोदकम् ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

Padamanjari

Up

असन्देहार्थम् केवल उदके इत्यवचनाद् अकेवले इति पदच्छेदः । मश्रम् - द्रव्यान्तरसंयुक्तम् ॥