कुमार्यां वयसि

6-2-95 कुमार्यां वयसि पूर्वपदम् अन्तः

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

कुमार्यामुत्तरपदे वयसि गम्यमाने पूर्वपदमन्तोदात्तं भवति। वृ॒द्धकु॑मारी॥ ज॒रत्कु॑मारी। कुमारीशब्दः पुंसा सहासंप्रयोगमात्रं प्रवृत्तिनिमित्तमुपादाय प्रयुक्तो वृद्धादिभिर्वयोविशेषवचनैः समानाधिकरणो भवति। तच्च वय इह गृह्यते, न कुमारत्वमेव। वयसीति किम्? प॒र॒म॒कु॒मा॒री॥

Siddhanta Kaumudi

Up

पूर्वपदमन्तोदात्तम् । वृद्धकुमारी । कुमारीशब्दः पुंसा सहासंप्रयोगमात्रं प्रवृत्तिनिमित्तमुपादाय प्रयुक्तो वृद्धादिभिः समानाधिकरणः । तच्च वय इह गृह्यते न कुमारत्वमेव । वयसि किम् । परमकुमारी ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

Padamanjari

Up

वृद्धकुमारीति । विशेषणसमासः । जरत्कुमारीति । जरतीशब्दस्य पूर्वकालैक इत्येनेन, अत्रोभयत्र पुंवत्कर्मधारय इत्यादिना पुंपद्भावः । ननु च कुमारीशब्दः प्रथमे वयसि वर्तते, तथा च वयसि प्रथमे इति ङीबत्र विहितः, तस्य कथं चरमवयोवाचिभ्यां वृद्धाचरतीशब्दाभ्यां सामानाघिकरण्यमत आह - कुमारीशब्द इत्यादि । कुमार्यां हि द्वयं दृष्टम् - प्रथमं वयः , पुंसा सहासम्प्रयोगश्च तत्र प्रथमार्थप्रहाणेन द्वितीयमर्थमसम्प्रयोगमात्रमुपाददानस्य सम्भवति सामानधिकरण्यमित्यर्थः । तच्चेति । वृद्धादिशब्दान्तराभिधेयमित्यर्थः । कुमारत्वमेवेति । यदेतत्कुमारीशब्दस्य प्रवृत्तिनिमितं न तद्वयो गृह्यत इत्यर्थः । एतच्च वयोग्रखहणसामर्थ्याल्लभ्यते अन्यथा कुमारीशब्दप्रयोगो नियमतः प्रथमवयो गम्यते इत्यनर्थकं तत्स्यात् । परमकुमारीत्यत्र कुमारत्वमेव प्रतीयते, न वयोऽन्तरमिति भवति प्रत्युदाहरणम् ॥