6-2-94 सञ्ज्ञायां गिरिनिकाययोः पूर्वपदम् अन्तः
संज्ञायां विषये गिरि निकाय इत्येतयोरुत्तरपदयोः पूर्वपदमन्तोदात्तं भवति। अ॒ञ्ज॒नागि॑रिः। भ॒ञ्ज॒नागि॑रिः। निकाये — शा॒पि॒ण्डिनि॑कायः। मा॒ैण्डिनि॑कायः। चि॒खि॒ल्लिनि॑कायः। संज्ञायामिति किम्? प॒र॒म॒गि॒रिः। ब्रा॒ह्म॒ण॒नि॒का॒यः॥
एतयोः परतः पूर्वमन्तोतरत्तम् । अञ्जनागिरिः । मौण्डिनिकायः । संज्ञायां किम् । परमगिरिः । ब्राह्मणनिकायः ॥
अञ्जनागिरिरिति । वनगिर्योः संज्ञायाम् इति दिर्घत्वम् ॥