6-2-93 सर्वं गुणकार्त्स्न्ये पूर्वपदम् अन्तः
सर्वशब्दः पूर्वपदं गुणकार्त्स्न्ये वर्तमानमन्तोदात्तं भवति। स॒र्वश्वे॑तः। स॒र्वकृ॑ष्णः। स॒र्वम॑हान्। सर्वमिति किम्? प॒र॒म॒श्वे॒तः। आश्रयव्याप्त्या परमत्वं श्वेतत्वस्येति गुणकार्त्स्न्ये वर्तते। गुणग्रहणं किम्? स॒र्व॒सा॒ैव॒र्णः। स॒र्व॒रा॒ज॒तः। कार्त्स्न्य इति किम्? सर्वेषां श्वेततरः स॒र्व॒श्वे॒तः। <<गुणात्तरेण समासस्तरलोपश्च वक्तव्यः>> (२.२.९ वा०) इत्येवमत्र समासस्तरब्लोपश्च॥
सर्वशब्दः पूर्वपदमन्तोदात्तम् । सर्वश्वेतः । सर्वमहान् । सर्वंकिम् । परमश्वेतः आश्रयव्याप्त्या परमत्वं श्वेतस्येति गुणकार्त्स्न्ये वर्तते । गुणेति किम् । सर्वसौवर्णः । कार्त्स्न्ये किम् । सर्वेषां श्वेततरः सर्वश्वेतः ॥
यत्र गुणान्तरस्याभावस्तत्र गुणकार्त्स्न्यं भवति । सर्वश्वेत इति । पूर्वकालैक इत्यादिना कर्मधारयः । अत्र शुक्लेन गुणेन सर्वावयवानां वायप्तिर्गम्यते । आश्रयव्याप्त्या परमत्वमिति । यद्यप्यौज्ज्वल्यादिनापि परमत्वं सम्भवति, अत्र त्वेवंविधं परमत्वं विवक्षितमित्यर्थः । सर्वसौवर्ण इति । विकारविषयमत्र कार्त्स्न्यम् । कार्त्स्न्ये इति किमिति । गुणवाचिन्युतरपदे न स्रवशब्दस्य कार्त्सस्न्यं व्यभिचरतीति प्रश्नः । सर्वेषां श्वेततरः सर्वश्वेत इति । गुणिकार्त्स्न्ये सर्वशब्दः, न गुणकार्त्स्न्ये । सर्वषामिति च गुणसम्बन्धे षष्ठी, पटस्य शौक्ल्यमितिवद् । गुणवाचिन एव च प्रत्ययः, सर्वेषां पटानां द्रव्यान्तराधारो यः श्वेतगुणस्तदपेक्षया सातिशयः श्वेतो गुण इत्यर्थः । गुणातरेणेति । गुणाद्यौस्तरप्प्रत्ययस्तदन्तेनेत्यर्थः । वचनमेवेदम्, तेन पूरणगुण कैति प्रतिषेधं बाधित्वा समासश्च भवति, तरब्लोपश्च ॥