6-2-92 अन्तः पूर्वपदम्
अन्त इत्यधिकृतम्। इत उत्तरं यद् वक्ष्यामस्तत्र पूर्वपदस्यान्त उदात्तो भवतीत्येवं वेदितव्यम्। वक्ष्यति — <<सर्वं गुणकार्त्स्न्ये>>६.२.९३ — स॒र्वश्वे॑तः। स॒र्वकृ॑ष्णः। प्राग् <<उत्तरपदादिः>> ६.२.१११ इत्येतस्मादयमधिकारो वेदितव्यः॥
अधिकारोऽयम् । प्रागुत्तरपदादिग्रहणात् ॥
अत्रापि प्रकरणे पूर्वपदविशषया प्रथमा षष्ठ।ल्र्थे द्रष्टव्या ॥