न भूताधिकसंजीवमद्राश्मकज्जलम्

6-2-91 न भूताधिकसञ्जीवमद्राश्मकज्जलम् पूर्वपदम् आदिः उदात्तः अर्मे

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

भूत अधिक संजीव मद्र अश्मन् कज्जल इत्येतानि पूर्वपदानि अर्मशब्द उत्तरपदे नाद्युदात्तानि भवन्ति। भू॒ता॒र्मम्। अ॒धि॒का॒र्मम्। सं॒जी॒वा॒र्मम्। मद्राश्मग्रहणं संघातविगृहीतार्थम्। म॒द्रा॒र्मम्। अ॒श्मा॒र्मम्। म॒द्रा॒श्मा॒र्मम्। क॒ज्ज॒ला॒र्मम्। समासान्तोदात्तत्वमेवात्र भवति॥ आद्युदात्तप्रकरणे दिवोदासादीनां छन्दस्युपसंख्यानम्॥ दिवो॑दासं वध्र्य॒श्वाय॑ दा॒शुषे॑ (ऋ० ६.६१.१)॥

Siddhanta Kaumudi

Up

अर्मे परे नैतान्याद्युदात्तानि । भूतार्मम् । अधिकार्मम् । सञ्जीवार्मम् । मद्राश्मग्रहणं संघातविगृहीतार्थम् । मद्रार्मम् । अश्मार्मम् । मद्राश्मार्मम् । कज्जलार्मम् ।<!आद्युदात्तप्रकरणे दिवोदासादीनां छन्दस्युपसंख्यानम् !> (वार्तिकम्) ॥ दिवोदासाय दाशुषे (दिवो॑दासाय दा॒शुषे॑) ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

Padamanjari

Up