6-2-9 शारदे अनार्तवे प्रकृत्या पूर्वपदम् तत्पुरुषे
ऋतौ भवमार्तवम्। अनार्तववाचिनि शारदशब्द उत्तरपदे तत्पुरुषे समासे पूर्वपदं प्रकृतिस्वरं भवति। रज्जु॑शारदमुदकम्। दृ॒षत्शा॑रदाः सक्त वः। शारदशब्दोऽयं प्रत्यग्रवाची, तस्य नित्यसमासोऽस्वपदविग्रह इष्यते। सद्यो रज्जूद्धृतमुदकं प्रत्यग्रमनुपहतं रज्जुशारदमुच्यते। रज्जुशब्दः <<सृजेरसुम् च>> (प०उ० १.१५) इति उप्रत्ययान्त आदिलोपश्च। <<धान्ये नित्>> (प०उ०१.९) इति च तत्र वर्तते, तेनाद्युदात्तः। दृषत्शब्द <<दृणातेः षुग् ह्रस्वश्च>> (प० उ० १.१३१) इति अदिप्रत्ययान्तोऽन्तोदात्तः। अनार्तव इति किम् ? प॒र॒म॒शा॒र॒दम्। उ॒त्त॒म॒शा॒र॒दम्। शरदि ऋतुविशेषे भवं यत् तदिह शारदम्॥
ऋतौ भवमार्तवम् । तदन्यवाचिनि शारदशब्दे परे तत्पुरुषे पूर्वपदं प्रकृतिस्वरं स्यात् । रज्जुशारदमुदकम् । शारदशब्दो नूतनार्थः । तस्यास्वपदविग्रहः । रज्जोः सद्य उद्धृतम् । रज्जुशब्दः सृजेरसुम्च <{उ15}> इत्याद्युदात्तो व्युत्पादितः । अनार्तवे किम् । उत्तमशारदम् ॥
उदाहरणे रज्जूद्धृते रज्जुशब्दो दृषत्पिष्टेषु दृषच्छब्दः, ततः कर्मधारयऽस्वपदविग्रहः। सृजेरसुम् च इत्यत्र स्कन्देः सलोपश्च इत्यतः सलोप इति वर्तते, तेन सृजेरन्त्यादचः परोऽयमसुम्, सलोपे यणादेशेऽसुमः सकारस्य जश्त्वे च रज्जुरिति भवति ॥