6-2-10 अध्वर्युकषाययोः जातौ प्रकृत्या पूर्वपदम् तत्पुरुषे
अध्वर्यु कषाय इत्येतयोर्जातिवाचिनि तत्पुरुषे समासे पूर्वपदं प्रकृतिस्वरं भवति। प्राच्या॑ध्वर्युः। क॒ठाध्व॑र्युः। का॒ला॒पाध्व॑र्युः। एते समानाधिकरणसमासा जातिवाचिनो नियतविषयाः। तत्र प्राच्यशब्दो यत्प्रत्ययान्त आद्युदात्तः। कठशब्दः पचाद्यचि व्युत्पादितः, ततः कठेन प्रोक्तमिति <<वैशम्पायनान्तेवासिभ्यश्च>> ४.३.१०४ इति णिनिस्तस्य <<कठचरकाल्लुक्>> ४.३.१०७ इति लुक्। कलापिना प्रोक्तमिति <<कलापिनोऽण्>> ४.३.१०८ तस्मिन् <<इनण्यनपत्ये>> ६.४.१६४ इति प्रकृतिभावे प्राप्ते <<नान्तस्य टिलोपे सब्रह्मचारिपीठ — सर्पिकलापिकौथुमितैतिलिजाजलिलाङ्गलिशिलालिशिखण्डिसूकरसद्मसुपर्वणामुपसंख्यानम्>> (६.४.१४४ वा०) इति टिलोपः। तदेवं कालापशब्दोऽन्तोदात्तः। स॒र्पि॒र्म॒ण्डक॑षायम्। उ॒मा॒पु॒ष्पक॑षायम्। दा॒ैवा॒रि॒कक॑षायम्। षष्ठीसमासव्युत्पादिता रूढिशब्दा एते। तत्र सर्पिर्मण्डशब्द उमापुष्पशब्दश्च षष्ठीसमासावन्तोदात्तौ। दौवारिकशब्दोऽपि द्वारे नियुक्त इति ठकि सत्यन्तोदात्त एव। जाताविति किम्? प॒र॒मा॒ध्व॒र्युः॒। प॒र॒म॒क॒ षा॒यः॥
एतयोः परतो जातिवाचिनि तत्पुरुषे पूर्वपदं प्रकृतिस्वरम् । कठाध्वर्युः । दौवारिककषायम् । कठशब्दः पचाद्यजन्तः । तस्मात् वैशम्पायनान्तेवासिभ्यश्च <{SK1484}> इति णिनेः कठचरकाल्लुक् <{SK1487}> इति लुक् । द्वारि नियुक्त इति ठक्यन्तोदात्तो दौवारिकशब्दः । जातौ किम् । परमाध्वर्युः ॥
नियतविषया इति। वरणविशेषणियता इत्यर्थः॥