6-2-8 निवाते वातत्राणे प्रकृत्या पूर्वपदम् तत्पुरुषे
निवातशब्द उत्तरपदे वातत्राणवाचिनि तत्पुरुषे समासे पूर्वपदं प्रकृतिस्वरं भवति। कुट्येव निवातं कु॒टीनि॑वातम्। श॒मीनि॑वातम्। कुड्य॑निवातम्। वातस्याभावो निवातम्, अर्थाभावः २.१.५ इत्यव्ययीभावः। निरुद्धो वातोऽस्मिन्निति वा निवातमिति बहुव्रीहिः। तत्र कुड्यादिहेतुके निवाते कुड्यादयो वर्तमानाः समानाधिकरणेन निवातशब्देन सह समस्यन्ते। कुटीशमीशब्दौ गौरादिङीषन्तावन्तोदात्तौ। कुड्यशब्दोऽपि कवतेर्यत् डक् किच्च इति यत्प्रत्ययान्त आद्युदात्त इत्येके। ड्यक्प्रत्ययान्तोऽन्तोदात्त इत्यपरे। वातत्राण इति किम् ? रा॒ज॒नि॒वा॒ते वसति। सुखं मा॒तृ॒नि॒वा॒तम्। निवातशब्दोऽयं पार्श्ववाची रूढिशब्दस्तत्रोभयत्र षष्ठीसमासः॥
निवातशब्दे परे वातत्राणवाचिनि तत्पुरुषे पूर्वपदं प्रकृत्या । कुटीनिवातम् । कुड्यनिवातम् । कुटीशब्दो गौरादिङीपन्तः । कुड्यशब्दो ड्यगन्तः । यगन्त इत्यन्ये । वातत्राणे किम् । राजनिवाते वसति । निवातशब्दोऽयं रूढः पार्श्वे ॥
ड।ल्क्प्रत्ययान्तोऽन्तोदात इत्यपरे इति । कवतेड।ल्Çक् इति सूत्रमधीयते । डकारस्येत्संज्ञा न भवति गुणप्रतिषेधार्थात्ककारानुबन्धात् ॥