6-2-88 मालादीनां च पूर्वपदम् आदिः उदात्तः प्रस्थे
प्रस्थ इति वर्तते। प्रस्थ। उत्तरपदे मालादीनामादिरुदात्तो भवति। माला॑प्रस्थः। शाला॑प्रस्थः॥ माला। शाला। शोणा। द्राक्षा। क्षौमा। क्षामा। काञ्ची। एक। काम। मालादिः। वृद्धार्थ आरम्भः। एकशोणाशब्दयोः <<एङ् प्राचां देशे>> १.१.७५ इति वृद्धसंज्ञा॥
वृद्धार्थमिदम् । मालाप्रस्थः ॥