6-2-87 प्रस्थे अवृद्धं अकर्क्यादीनाम् पूर्वपदम् आदिः उदात्तः
प्रस्थशब्द उत्तरपदे कर्क्यादिवर्जितमवृद्धं पूर्वपदमाद्युदात्तं भवति। इन्द्॑रप्रस्थः। कुण्ड॑प्रस्थः। ह्रद॑प्रस्थः।सुव॑र्णप्रस्थः। अवृद्धमिति किम्? दा॒क्षि॒प्॒रस्थः। मा॒ह॒कि॒प्॒रस्थः। अकर्क्यादीनामिति किम्? क॒र्की॒प्॒रस्थः। म॒घी॒प्र॒स्थ॥ कर्की। मघी। मकरी। कर्कन्धू। शमी। करीर। कटुक। कुरल। बदर। कर्क्यादिः॥
प्रस्थशब्दे उत्तरपदे कर्क्यादिवर्जितमवृद्धं पूर्वपदमाद्युदात्तं स्यात् । इन्द्र प्रस्थः । अवृद्धं किम् । दाक्षिप्रस्थः । अकेति किम् । कर्कीप्रस्थः । मकरीप्रस्थः ॥
मालीदीनां चेति वचनादवृद्धमिति पदच्छेदः । कर्क्यादिप्रतिषेधस्तु नामधेयार्थः स्यात् - वुअ नामधेयस्य वृद्धसंज्ञा वक्तव्या इति ॥