6-2-89 अमहन्नवं नगरे अनुदीचाम् पूर्वपदम् आदिः उदात्तः
नगरशब्द उत्तरपदे महन्नवशब्दवर्जितं पूर्वपदमाद्युदात्तं भवति, तत् चेदुदीचां न भवति। सुह्म॑नगरम्। पुण्ड्॑रनगरम्। अहमन्नवमिति किम्? म॒हा॒न॒ग॒रम्। न॒व॒न॒ग॒रम्। अनुदीचामिति किम्? न॒दी॒न॒ग॒रम्। का॒न्ती॒न॒ग॒रम्॥
नगरे परे महन्नवन्वर्जितं पूर्वमाद्युदात्तं स्यात् तच्चेदुदीचां न । ब्रह्मनगरम् । अमेति किम् । महानगरम् । नवनगरम् । अनुदीचां किम् । कार्तिकनगरम् ॥