6-2-86 छात्र्यादयः शालायाम् पूर्वपदम् आदिः उदात्तः
शालायामुत्तरपदे छात्र्यादय आद्युदात्ता भवन्ति। छात्रि॑शाला। ऐलि॑शाला। भाण्डि॑शाला॥ छात्रि। ऐलि। भाण्डि। व्याडि। आपिशलि। आखण्डि। आपारि। गौमि। यदा शालान्तस्तत्पुरुषो नपुंसकलिङ्गो भवति, तदापि <<तत्पुरुषे शालायां नपुंसके>> ६.२.१२३ इत्येतस्मात् पूर्वविप्रतिषेधेन पूर्वपदमाद्युदात्तं भवति। छात्रि॑शालम्। ऐलि॑शालम्॥
छात्रिशाला । व्याडिशाला । यदापि शालान्तः समासो नपुंसकलिङ्गो भवति तदापि तत्पुरुषे शालायां नपुंसके <{SK3857}> इत्येतस्मात्पूर्वप्रतिषेधेनायमेव स्वरः । छात्रिशालम् ॥
यदा शालान्त थैत्यादि । विभाषा सेनासुरा इत्यादिना शालान्तस्य तत्पुरुषस्य विभाषा नपुंसकत्वमुक्तम् । तत्रास्यावकाशो यो नपुंसकलिङ्गो न भवति - छात्रिशाला, गोशरितिः तत्पुरुषे शालायाम् इत्यस्यावकाशो यश्छात्त्र्यादिपूर्वपदो न भवति - वाराह्मणशालम्, क्षत्रियशालमिति, यश्छात्त्र्यादिपूर्वपदो नपुंसकलिङ्गश्च, तत्रैकदेशबिकृतस्यानन्यत्वादयमपि प्राप्नोति, तत्पुरुषे शालायाम् इत्ययं च तत्र पूर्वविप्रतिषेधादयमेव भवति ॥