घोषादिषु च

6-2-85 घोषादिषु च पूर्वपदम् आदिः उदात्तः

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

घोषादिषु चोत्तरपदेषु पूर्वपदमाद्युदात्तं भवति। दाक्षि॑घोषः। दाक्षि॑कटः। दाक्षि॑पल्वलः। दाक्षि॑ह्रदः। दाक्षि॑बदरी। दाक्षि॑पिङ्गलः। दाक्षि॑पिशङ्गः। दाक्षि॑शालः। दाक्षि॑रक्षा। दाक्षि॑शिल्पी। दाक्ष्य॑श्वत्थः। कुन्द॑तृणम्। दाक्षि॑शाल्मली। आश्र॑ममुनिः। शाल्म॑लिमुनिः। दाक्षि॑पे्रक्षा। दाक्षि॑कूटः। यान्यत्र निवासनामधेयानि तेषु निवसद्वाचीन्यपि पूर्वपदान्याद्युदात्तानि भवन्ति। अनिवसन्त इति नानुवर्तयन्ति केचित्। अपरे पुनरनुवर्तयन्ति॥

Siddhanta Kaumudi

Up

दाक्षिघोषः । दाक्षिकटः । दाक्षिहृदः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

Padamanjari

Up

यान्यत्रेति । घोषकुटादीनि । अपरे पुनरिति । थेषां घोषकुटादिष्वपि शब्देषु तावद्भवति, न निवासनामधेयेषु ॥