6-2-84 ग्रामे अनिवसन्तः पूर्वपदम् आदिः उदात्तः
ग्रामशब्द उत्तरपदे पूर्वपदमाद्युदात्तं भवति, न चेद् निवसद्वाचि भवति। मल्ल॑ग्रामः। वणि॑ग्ग्रामः। ग्रामशब्दोऽत्र समूहवाची। देव॑ग्रामः। देवस्वामिक इत्यर्थः। अनिवसन्त इति किम्? दा॒क्षि॒ग्रा॒मः। मा॒ह॒कि॒ग्रा॒मः। दाक्ष्यादयो निवसन्ति यस्मिन् ग्रामे, स तेषामिति व्यपदिश्यते॥
ग्रामे परे पूर्वपदमुदात्तम् । तच्चेन्निवसद्वाचि न । मल्लग्रामः । ग्रामशब्दोऽत्र समूहवाची । देवग्रामः । देवस्वामिकः । अनिवसन्तः किम् । दाक्षिग्रामः । दाक्षिनिवासः ॥
निपूर्वाद्वसेरौणादिकोऽधिकरणे झच् , निवसग्त्यस्मिन्निति निवसन्तः । देवग्राम इति । प्राचीनपरिक्षिप्तदेशेऽयं ग्रामशब्दः । यद्येवम्, निवसन्तवाची भवति तत्राह - देवस्वामिक कैति । ततश्चायं न देवापेक्षया ग्रामो निवसन्त इति भावः । दाक्ष्यादयो निवसन्ति यस्मिन्नित्यादि । अन्ये निवसन्तु, तत्र मा वा यसन्, ते तावदवात्सुरित्येतावता तेपामिति व्यपदिश्यत इत्यर्थः ॥