पदेऽपदेशे

6-2-7 पदे अपदेशे प्रकृत्या पूर्वपदम् तत्पुरुषे

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

अपदेशो व्याजः, तद्वाचिनि तत्पुरुषे समासे पदशब्द उत्तरपदे पूर्वपदं प्रकृतिस्वरं भवति। मूत्र॑पदेन प्रस्थितः। उ॒च्चा॒रप॑देन प्रस्थितः। मूत्रशब्दः <<सिविमुच्योष्टेरू च>> (प० उ० ४.१६४) इति ष्ट्रन्प्रत्ययान्तः, मूत्रयतेर्वा घञन्त आद्युदात्तः। उच्चारशब्दोऽपि घञन्तः। <<थाथघञ्क्ताजबित्रकाणाम्>> ६.२.१४४ इत्यन्तोदात्तः। विशेषणसमासोऽयं मयूरव्यंसकादिर्वा। अपदेश इति किम् ? विष्णोः पदं वि॒ष्णु॒पदम्॥

Siddhanta Kaumudi

Up

व्याजवाचिनि पदशब्द उत्तरपदे पूर्वपदं प्रकृत्या तत्पुरुषे । मूत्रपदेन प्रस्थितः । उच्चारपदेन । मूत्रशब्दो घञन्तः । उच्चारशब्दो घञन्तः थाथ-<{SK3878}> आदिस्वरेणान्तोदात्तः । अपदेशे किम् । विष्णुपदम् ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

Padamanjari

Up

अच्चारः - पुलीषक्रिया ॥