6-2-77 सञ्ज्ञायां च पूर्वपदम् आदिः उदात्तः अणि च अकृञः
संज्ञायां विषयेऽणन्त उत्तरपदेऽकृञः पूर्वपदमाद्युदात्तं भवति। तन्तु॑वायो नाम कीटः। वाल॑वायो नाम पर्वतः। अकृञ इत्येव — र॒थ॒का॒रो नाम ब्राह्मणः॥
अण्णन्ते परे । तन्तुवायो नाम कृमिः । अकृञ इत्येव । रथकारो नाम ब्राह्मणः ॥