शिल्पिनि चाकृञः

6-2-76 शिल्पिनि च अकृञः पूर्वपदम् आदिः उदात्तः अणि

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

शिल्पिवाचिनि समासेऽणन्त उत्तरपदे पूर्वपदमाद्युदात्तं भवति, स चेदण् कृञो न भवति। तन्तु॑वायः। तुन्न॑वायः। वाल॑वायः। शिल्पिनीति किम् ? का॒ण्ड॒ला॒वः। अकृञ इति किम् ? कु॒म्भ॒का॒रः। अ॒य॒स्का॒रः॥

Siddhanta Kaumudi

Up

शिल्पिवाचिनि समासे अण्णन्ते परे पूर्वमाद्युदात्तं स चेदण कृञः परो न भवति । तन्तुवायः । शिल्पिनि किम् । काण्डलावः । अकृञः किम् । कुम्भकारः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

Padamanjari

Up

युक्ते च इत्येव सिद्धे कृञः प्रतिषेधार्थ वचनतम् । तन्तुवाय इति ह्वावामश्च इत्यण्, अतो युक् । अयस्कार इति अतः कृकगम इत्यादिना विसर्जनीयस्य सत्वम् ॥