प्राचां क्रीडायाम्

6-2-74 प्राचां क्रीडायाम् पूर्वपदम् आदिः उदात्तः अके

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

प्राग्देशवर्तिनां या क्रीडा तद्वाचिनि समासेऽकप्रत्ययान्त उत्तरपदे पूर्वपदमाद्युदात्तं भवति। उद्दा॑लकपुष्पभञ्जिका। वीर॑णपुष्पप्रचायिका। शाल॑भञ्जिका। ताल॑भञ्जिका। <<संज्ञायाम्>> ३.३.१०९ इति ण्वुल, <<नित्यं क्रीडाजीविकयोः>> २.२.१७ इति षष्ठीसमासः। प्राचामिति किम्? जी॒व॒पु॒त्र॒प्॒रचायि॑का। इयमुदीचां क्रीडा। क्रीडायामिति किम्? तव पु॒ष्प॒प्॒रचा॒यि॒का। पर्याये ण्वुच्प्रत्ययो भवति॥

Siddhanta Kaumudi

Up

प्राद्गेश वाचिना या क्रीडा तद्वाचिनि समासे अकप्रत्ययान्ते परे पूर्वमाद्युदात्तं स्यात् । उद्दालकपुष्पभञ्जिका । संज्ञायाम् <{SK3286}> इति ण्वुल् । प्राचां किम् । जीवपुत्रप्रचायिका । इयमुदीचां क्रीडा । क्रीडायां किम् । तव पुष्पप्रचायिका । पर्याये ण्वुल् ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

Padamanjari

Up

प्राचां क्रीडायामिति श्रुतयोरेवान्वयसम्भवान्मतेनेत्यध्याहारो न युक्त इति चमत्वाऽऽह - प्राग्देश्वतिनां या एक्रीडेति ॥