अके जीविकाऽर्थे

6-2-73 अके जीविकार्थे पूर्वपदम् आदिः उदात्तः

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

अकप्रत्ययान्त उत्तरपदे जीविकार्थवाचिनि समासे पूर्वपदमाद्युदात्तं भवति। दन्त॑लेखकः। नख॑लेखकः। अव॑स्करशोधकः। रम॑णीयकारकः। दन्तलेखनादिभिर्येषां जीविका, त एवमुच्यन्ते। <<नित्यं क्रीडाजीविकयोः>> २.२.१७ इति समासः। अक इति किम्? र॒म॒णी॒य॒क॒र्ता। जीविकार्थ इति किम्? इ॒क्षु॒भ॒क्षि॒कां मे धारयसि॥

Siddhanta Kaumudi

Up

दन्तलेखकः । यस्य दन्तलेखनेन जीविका । नित्यं क्रीडा-<{SK711}> इति समासः । अके किम् । रमणीयकर्ता । जीविकार्थे किम् । इक्षुभक्षिकां मे धारयसि ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

Padamanjari

Up

जीविकावाजिनीति । प्रवृत्तिनिमितकथनमेतत्, जीविकारुपप्रवृत्तिनिमित इत्यर्थः । पर्यवसानभूमिस्तु तध्वान्, तदाह - दन्तलेखनादिभिर्यषामिति । रमणीयकतेति । अत्रापि नित्यं क्रीडाजीविकयोः इति समासः, क्रीडायामेव हि तृजन्तं सम्भवति, न पुनर्जीविकायामिति तत्रार्थः ॥