गोबिडालसिंहसैन्धवेषूपमाने

6-2-72 गोबिडालसिंहसैन्धवेषु उपमाने पूर्वपदम् आदिः उदात्तः

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

गवादिषूपमानवाचिषूत्तरपदेषु पूर्वपदमाद्युदात्तं भवति। धान्य॑गवः। हिर॑ण्यगवः। भिक्षा॑बिडालः। श्राणा॑बिडालः। तृण॑सिंहः। काष्ठ॑सिंहः। सक्तु॑ सैन्धवः। पान॑सैन्धवः। धान्यं गौरिवेति विगृह्य व्याघ्रादेराकृतिगणत्वाद् <<उपमितं व्याघ्रादिभिः०>> २.१.५६ इति समासः। उपमानार्थोऽपि यथासंभवं यथाप्रसिद्धि च योजयितव्यः। गवाकृत्या संनिवेशितं धान्यं धान्यगवशब्देनोच्यते। उपमान इति किम्? प॒र॒म॒सिं॒हः॥

Siddhanta Kaumudi

Up

धान्यगवः । गोबिडालः । तृणसिंहः । सक्तुसैन्धवः । धान्यं गौरिवेति विग्रहः । व्याघ्रादिः । गवाकृत्या सन्निवेशितं धान्यं धान्यगवशब्देनोच्यते । उपमाने किम् । परमसिंहः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

Padamanjari

Up

गौविडालसिहसैन्धवेषूपमाने ॥ उपमानशब्दस्य सह गवादिभिः प्रत्येकं सम्बन्धादेकवचनम् । उपमानार्थोऽपीति । यो यत्रोदाहरणे उपमानार्थः समाभवति स तत्र योजयितव्यः । यथाप्रसिद्धं चेति । यस्योदाहरणस्य च यथा लोके प्रसिद्धिः स तथा योजयितव्यः । तत्र दिङ्मात्रं दर्शयति - गवाकृत्येत्यादि । आकृतिः - संस्थानम् , संनिवेशितम् - व्यवस्थापितम् । एवमन्यत्रापि यत्किञ्चित् सादृश्यं योजनियम् ॥