भक्ताख्यास्तदर्थेषु

6-2-71 भक्ताख्याः तदर्थेषु पूर्वपदम् आदिः उदात्तः

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

भक्तमन्नम्, तदाख्यास्तद्वाचिनः शब्दाः, तदर्थेषूत्तरपदेषु आद्युदात्ता भवन्ति। भिक्षा॑कंसः। श्राणा॑कंसः। भाजी॑कंसः। भिक्षादयोऽन्नवचनाः। भक्ताख्या इति किम् ? स॒मा॒श॒शा॒ल॒यः। समशनं समाश इति क्रियामात्रमुच्यते, न द्रव्यम्। तदर्थेष्विति किम् ? भि॒क्षापि्॑रयः। बहुव्रीहिरयमत्र पूर्वपदमन्तोदात्तम्॥

Siddhanta Kaumudi

Up

भक्तमन्नम् । भिक्षाकंसः । भाजीकंसः । भिक्षादयोऽन्नविशेषाः । भक्ताख्याः किम् । समाशालयः । समशनं समाश इति क्रियामात्रमुच्यते । तदर्थेषु किम् । भिक्षाप्रियः । बहुव्रीहिरयम् । अत्र पूर्वपदमन्तोदात्तम् ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

Padamanjari

Up

एबहुवचननिर्देशादेव स्वरुपविधिनिरासे सिद्धे आख्याग्रहणं भक्तविशेषवाचिनां भक्षादीनां गर्हणार्थमन्यथा पर्यायाणामन्नादीनामेव ग्रहणं स्यात् । भिक्षाकंण्दयः षष्ठीसमासाः येषां प्रकृतिविकारभावे चतुर्थीसमास इति पक्षः । अन्येषां चतुर्थीसमासाः ॥