अङ्गानि मैरेये

6-2-70 अङ्गानि मैरेये पूर्वपदम् आदिः उदात्तः

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

मैरेयशब्द उत्तरपदे तदङ्गवाचीनि पूर्वपदान्याद्युदात्तानि भवन्ति। गुड॑मैरेयः। मधु॑मैरेयः। मद्यविशेषो मैरेयः, तस्य गुडविकारस्य गुडोऽङ्गं भवति, मधुविकारस्य तस्य मध्वङ्गम्। अङ्गानीति किम्? प॒र॒म॒म॒ैरे॒यः। मैरेय इति किम्? पु॒ष्पा॒स॒वः। फ॒ला॒स॒वः॥

Siddhanta Kaumudi

Up

मद्यविशेषो मैरेयः । मधुमैरेयः । मधुविकारस्य तस्य मध्वङ्गम् । अङ्गानि किम् । परममैरेयः । मैरेये किम् । पुष्पासवः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

Padamanjari

Up

एअङ्गम् - आरम्भकम्, बहुवचनं स्वरुपविधिनिरासार्थंम् । सुराव्यतिरिक्तं मद्यम् - दैरेयम् । तदङ्गवाचिनीति । दैरेयशब्द इति प्रकृतम्, कैह तु तच्छब्देन तदर्थः परामृश्यते । पौष्पासव इति । आसवः - मद्यविशेषः, यत् पौष्पैण मधुना द्रव्यान्तरेण चारभ्यते तस्य पौष्पमङ्गं भवति । पुष्पासव कैति तु युक्तः पाठः ॥