गोत्रान्तेवासिमाणवब्राह्मणेषु क्षेपे

6-2-69 गोत्रान्तेवासिमाणवब्राह्मणेषु क्षेपे पूर्वपदम् आदिः उदात्तः

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

गोत्रवाचिन्यन्तेवासिवाचिनि चोत्तरपदे माणवब्राह्मणयोश्च क्षेपवाचिनि समासे पूर्वपदमाद्युदात्तं भवति। जङ्घा॑वात्स्यः। यो जङ्घादानं ददान्यहमिति वात्स्यः संपद्यते, स जङ्घावात्स्य इति क्षिप्यते। भार्या॑सौश्रुतः। सुश्रुतापत्यस्य भार्याप्रधानतया क्षेपः। वशा॑ब्रह्मकृतेयः। ब्रह्मकृतशब्दः शुभ्रादिषु पठ्यते। गोत्र। अन्तेवासि — कुमा॑रीदाक्षाः। कम्ब॑लचारायणीयाः। घृत॑रौढीयाः। ओद॑नपाणिनीयाः। कुमार्यादिलाभकामा ये दाक्ष्यादिभिः प्रोक्त ानि शास्त्राण्यधीयते तच्छिष्यतां वा प्रतिपद्यन्ते त एवं क्षिप्यन्ते। अन्तेवासि। माणव — भिक्षा॑माणवः। भिक्षां लष्स्येऽहमिति माणवो भवति। माणय। ब्राह्मण — दासी॑ब्राह्मणः। वृष॑लीब्राह्मणः। भय॑ब्राह्मणः। यो भयेन ब्राह्मणः संपद्यते। अत्र यस्यान्यत् समासलक्षणं नास्ति, सुप्सुपेत्येव तत्र समासः कर्तव्यः। गोत्रादिष्विति किम्? दा॒सी॒श्रो॒त्रि॒यः। क्षेप इति किम् ? म॒हा॒ब्रा॒ह्म॒णः॥

Siddhanta Kaumudi

Up

भार्यासौश्रुतः । सुश्रुतापत्यस्य भार्याप्रधानतया क्षेपः । अन्तेवासी । कुमारीदाक्षाः । ओदनपाणिनीयाः । कुमार्यादिलाभकामा ये दाक्ष्यादिभिः प्रोक्तानि शास्त्रण्यधीयन्ते ते एवं क्षिप्यन्ते । भिक्षामाणवः । भिक्षां लप्स्येऽहमिति माणवः । भयब्राह्मणः । भयेन ब्राह्मणः संपद्यते । गोत्रादिषु किम् । दासीश्रोत्रियः । क्षेपे किम् । परमब्राह्मणः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

Padamanjari

Up

गोत्रान्तेवासिनोरर्थग्रहणम्, इतरयोः स्वरुपगरह्णम्। अपत्याधकारादन्यत्र लीकिकं गोत्रमित्यनेन लौकिकमपत्यमात्रं गोत्रं गृह्यते । जङ्घादानगहं ददानीति । जङ्घादानं करवाणीत्यर्थः , ओदनपाकं पचतीतिवत् । अत्र शाद्वादा वात्स्यानाभव पादप्रक्षालनं क्रियते, तत्रावात्स्यः सन्वात्स्योऽहणिति ब्रूतं, तल्लाभाय एजङ्घावात्स्य इति क्षिप्यते । वत्सश्बदो सौश्रुतः । भार्याप्रधानतयेति । शाकपार्थिवादित्वादुतरपदलोपी समास कैति दर्शयति । वशाब्राह्मकृतेय इति वशा - वन्ध्या भार्या, सौश्रु तवत्समासः । दक्षेण प्रोक्तं दाक्षम्, तदधीते दाक्षः, दाक्षेश्छात्त्रो वा दाक्षः । चारशब्दो नडादिः, चारायणेन प्रोक्तमधीते तस्य वा शिष्यश्चारायणीयः । एवं पाणिनीयः । कुमार्यादिलाभकामा इति । तत्प्रोक्ते ग्रन्थे श्रद्वायामसत्यामपि ये कुमार्यादिलाभकामास्तत्र प्रवर्तन्ते त एवं क्षिप्यन्ते । पूर्ववत्समासः । माणवब्राह्मणयोरपत्यवाचित्वेन प्रसिद्ध्यभावात्पृथग्ग्रहणम् । अपर आकह - तस्येदम् इत्यणन्तयोर्ग्रहण्, निपातनाञ्च माणवे णत्वमिति । भयब्राह्मण इति । यो ब्राह्मण एव सन् राजदण्डादिभयेन ब्राह्मणाचारं करोति, न श्रद्धया, स एवं एक्षिप्यते । कर्तृकरणे कृता बहुलम् कैति बहुलवचनादकृतापि समासः । दासीश्रोत्रियो दासीब्राह्मणवत् ॥