प्रतिबन्धि चिरकृच्छ्रयोः

6-2-6 प्रतिबन्धि चिरकृच्छ्रयोः प्रकृत्या पूर्वपदम् तत्पुरुषे

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

तत्पुरुषे समासे चिरकृच्छ्रयोरुत्तरपदयोः प्रतिबन्धिवाचि पूर्वपदं प्रकृतिस्वरं भवति। गम॑नचिरम्। गम॑नकृच्छ्रम्। व्या॒हर॑णचिरम्। व्या॒हर॑णकृच्छ्रम्। गमनव्याहरणशब्दौ ल्युडन्तौ, तयोर्लित्स्वरः। गमनं च यत् चिरं चेति विशेषणसमासोऽयं मयूरव्यंसकादिर्वैष द्रष्टव्यः। गमनं हि कारणविकलतया चिरकालभावि कृच्छ्रयोगि वा प्रतिबन्धि जायते। प्रतिबन्धीति किम् ? मू॒त्र॒कृ॒च्छ्रम्॥

Siddhanta Kaumudi

Up

प्रतिबन्धवाचि पूर्वपदं प्रकृत्या एतयोः परतस्तत्पुरुषे । गमनचिरम् । व्याहरणकृच्छ्रम् । गमनं कारणविकलतया चिरकालभावि कृच्छ्रयोगि च प्रतिबन्धि जायते । प्रतिबन्धि किम् । मूत्रकृच्छ्रम् ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

Padamanjari

Up

कार्यसिद्ध प्रतिबध्नातीति प्रतिबन्धि, आवश्यके णिनिः । विशेषणसमास इति । ननु च सामानाधिकरण्ये सति स भवति, न चेह तदस्ति गमनशब्दस्य गतिवाचित्वात् चिरशब्दस्य च कालवाचित्वात् नैष दोषः चिरकालभाविनि गमनेऽत्र चिरशब्दो वर्तते । मयूरव्यंसकादिर्वैष इति । गमनमत्र विशेष्यम्, तद्विशेषणे तु चिरकृच्छ्रे, अतो विशेष्यस्य पूर्वनिपातार्थं मयूरव्यासकादित्वमेष्टव्यमिति भावः । पूर्वपदस्य प्रतिबन्धिवाचित्वमुपपन्नयति । गमनं हीत्यदि । कराणनैकल्याद्धि चिरकारभावि गमनं कृच्छ्रयोगि च, कृच्छ्रम् - दुःखम्, तद्योगि च कार्यसिद्धेः प्रतिबन्धि जायते ॥