6-2-67 विभाषा अध्यक्षे पूर्वपदम् आदिः उदात्तः
अध्यक्षशब्द उत्तरपदे विभाषा पूर्वपदमाद्युदात्तं भवति। गवा॑ध्यक्षः,ग॒वा॒ध्य॒क्षः। अश्वा॑ध्यक्षः, अ॒श्वा॒ध्य॒क्षः॥
गवाध्यक्षः ॥
पापमिति स्वरुपग्रहणम्, शिल्पिनीति चार्थग्रहणम् व्याख्यानात् ॥