युक्ते च

6-2-66 युक्ते च पूर्वपदम् आदिः उदात्तः

Kashika

Up

index: 6.2.66 sutra: युक्ते च


युक्तवाचिनि च समासे पूर्वपदमाद्युदात्तम् भवति। गोबल्लवः। अश्वबल्लवः। गोमणिन्दः। अश्वमणिनदः। गोसङ्ख्यः। अश्वसङ्ख्यः। युक्तः इति समाहितः, कर्तव्ये तत्परो यः स उच्यते।

Siddhanta Kaumudi

Up

index: 6.2.66 sutra: युक्ते च


युक्तवाचिनि समासे पूर्वमाद्युदात्तम् । गोबल्लवः । कर्तव्ये तत्परो युक्तः ।

Padamanjari

Up

index: 6.2.66 sutra: युक्ते च


वल्लवादयः शब्दा गवादीनां पालकवचनाः । मथणिं ददातीति मणिन्दः पृषोदरादिः । गाः सञ्चष्टे, समि ख्यः इति कः गौसंख्यः, उपपदसमासः । नन्वत्र परत्वात्थाथादिस्वरः प्राप्नोति, अस्य तु गौबल्लवादिरवकाशः सत्यम्, पूर्वविप्रतिषेधास्त्वत्र पठितव्यः, चित्स्वराद्धारिस्वरः - पितृगवः, मातृगावः, कृत्स्वराञ्च वाडवहार्यम् । युक्तस्वरश्च कृत्स्वरादित्येव, कृतो यः स्वरस्थाथादिसृत्रेण तस्माद्यौक्तस्वरो भवति पूर्वविप्रतिषेधेनेत्यर्थः । युक्तः समाहि इति । युज समाधौ इत्यसेयैतद्रूपमित्यर्थः ॥