सप्तमीहारिणौ धर्म्येऽहरणे

6-2-65 सप्तमीहारिणौ धर्म्ये अहरणे पूर्वपदम् आदिः उदात्तः

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

सप्तम्यन्तं हारिवाचि च पूर्वपदं धर्म्यवाचिनि हरणशब्दादन्यस्मिन्नुत्तरपद आद्युदात्तं भवति। हारीति देयं यः स्वीकारोति सोऽभिधीयते। धर्म्यमित्याचारनियतं देयमुच्यते, धर्मो ह्यनुवृत्त आचारस्तस्मादनपेतं तेन वा प्राप्यमिति। स्तूपे॑शाणः। मुकु॑टेकार्षापणम्। हले॑द्विपदिका। हले॑त्रिपदिका। दृष॑दिमाषकः। <<संज्ञायाम्>> २.१.४४ इति सप्तमी समासः,<<कारनाम्नि च०>> ६.३.१० इति विभक्ते रलुक्। हारिणी — याज्ञि॑काश्वः। वैया॑करणहस्ती। मातु॑लाश्वः। पितृ॑व्यगवः। क्वचिदयमाचारो व्यवस्थितः — स्तूपादिषु शाणादि दातव्यम्, याज्ञिकादीनामश्वादीति। धर्म्य इति किम्? स्त॒म्बे॒र॒मः। क॒र्म॒क॒र॒व॒र्धि॒त॒कः। अहरण इति किम्? वा॒ड॒व॒ह॒र॒णम्। वडवाया अयं वाडवः। तस्य बीजनिषेकादुत्तरकालं शरीरपुष्ट्यर्थं यद् दीयते हरणमिति तदुच्यते। परोऽपि कृत्स्वरो हारिस्वरेण बाध्यते विप्रतिषेधेनेत्येतदहरण इत्यनेन ज्ञाप्यते, तेन वाड॑वहार्यम् इति हारिस्वरः सिद्धो भवति॥

Siddhanta Kaumudi

Up

सम्तम्यन्तं हारिवाचि च आद्युदात्तं धर्म्ये परे । देयं यः स्वीकरोति स हारीत्युच्यते । धर्म्यमित्याचारनियतं देयम् । मुकुटेकार्षापणम् । हलेद्विपदिका । संज्ञायाम् <{SK721}> इत्यलुक् । याज्ञिकाश्वः । वैयाकरणहस्ती । क्वचिदयमाचारो मुकुटादिषु कार्षापणादि दातव्यं याज्ञिकादीनां त्वश्वादिरिति । धर्म्ये इति किम् । स्तम्बेरमः । कर्मकरवर्द्धितकः । अहरणे किम् । वाडवहरणम् । वडवाया अयं वाडवः । तस्य बीजनिषेकादुत्तरकालं शरीरपुष्ट्यर्थं यद्दीयते तद्धरणमित्युच्यते । परोऽपि कृत्स्वरो हारिस्वरेम बाध्यत इत्यहरण इति निषेधेन ज्ञाप्यते । तेन वाडवहार्यमिति हारिस्वरः सिध्यति ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

Padamanjari

Up