6-2-64 आदिः उदात्तः पूर्वपदम्
आदिरुदात्त इत्येतदधिकृतम्। इत उत्तरं यद् वक्ष्यामस्तत्र पूर्वपदस्यादिरुदात्तो भवतीत्येवं तद् वेदितव्यम्। वक्ष्यति — <<सप्तमीहारिणौ धर्म्येऽहरणे>> ६.२.६५ इति। स्तूपे॑शाणः। मुकु॑टेकार्षापणम्। याज्ञि॑काश्वः। वैया॑करणहस्ती। दृष॑दिमाषकः। आदिरिति प्रागन्ताधिकारात् ६.२.९२। उदात्त इति <<प्रकृत्या भगालम्>> ६.२.१३७ इति यावत्॥
अधिकारोऽयम् ॥
हारीत्यावश्यके णिनिः । घर्म्ये इत्यर्थग्रहणम् । हरणप्रतिषेधातस्ताहचर्याद्धारीत्यर्थघणम् । आचारनियतमिति । आचारेण नियनमाचारनियतम्, आचारवशादवश्यकर्तव्यमित्यर्थः । कथं पुनस्ताद्धर्म्यम् तत्राह - घर्मो ह्यनुवृत आचार इति । जनपदे ग्रामे चरणे कुरु वाऽनुवृतः परम्परायात इत्यर्थः । तस्मादनपेतं धर्म्यम्, धर्मपथ्यर्थ इत्यादिना यत् । तेन वा प्राप्यमिति । नौवयोधर्म इत्यादिना यत् । याज्ञिकाश्वादौ षष्ठीसमासः । चिदित्यादिना शाणादेर्देअयस्याचारनियततां दर्शयति । याज्ञिकादीनामश्वादीति । दातव्यमित्यनुपङ्गः । क्वचिदयमाचारा व्यपस्थित इति च । वर्द्धितको नाम - मूले स्थूलोऽग्रे सूक्ष्म ओदनपिण्डः, स कर्मकराय दीयते, अन्यथा कर्म न कुर्यादिति, न त्वयं धर्मः । बीजावाबः - वीजनिषेकः, गर्भाधानम् । वाडवहरणमिति । क्वचिदयमाचारो व्यवस्थितः - वाडवाय बीचनिषेकादुतरकालं शरीरपुष्ट।ल्र्थं योग्यमश्नादि दात्व्यमिति । हरणशब्दः कर्मसाधनः । अत्रास्मिन्स्वरे निवृते कृत्स्वरे प्राप्ते अनो भावकर्मवचनः इत्युतरपदान्तोदातत्वं भवति । ननु च परत्वादेवायं स्वरो भवतिष्यति, तत्किं हरणप्रतिषेधेन तत्राह - परोऽपीत्यादि । अत्र पूर्वपदानां स्वरो नाऽऽख्यातः अप्रयोजनत्वात् ॥