राजा च प्रशंसायाम्

6-2-63 राजा च प्रशंसायाम् प्रकृत्या पूर्वपदम् अन्यतरस्याम् शिल्पिनि

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

राजशब्दः पूर्वपदं शिल्पिवाचिन्युत्तरपदे प्रशंसायां गम्यमानायामन्यतरस्यां प्रकृतिस्वरं भवति। राज॑नापितः, रा॒ज॒ना॒पि॒तः। राज॑कुलालः, रा॒ज॒कु॒ला॒लः। कर्मधारये राजगुणाध्यारोपेणोत्तरपदार्थस्य प्रशंसा। षष्ठीसमासे च राजयोग्यतया तस्य। राजेति किम्? प॒र॒म॒ना॒पि॒तः। प्रशंसायामिति किम्? रा॒ज॒ना॒पि॒तः। शिल्पिनीत्येव — रा॒ज॒ह॒स्ती॥

Siddhanta Kaumudi

Up

शिल्पिवाचिनि परे प्रशंसार्थं राजपदं वा प्रकृत्या । राजनापितः । राजकुलालः । प्रशंसायां किम् । राजनापितः । शिल्पिनि किम् । राजहस्ती ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

Padamanjari

Up

षष्ठीसमासे चेति । प्रशंसेत्यनुषङ्गः । राजयोग्यतया तस्येति । स हि कर्मणि प्रवीणत्वाद्राजानं प्रति योग्यो भवति । राजार्ह इति चोक्ते प्रशंसा गम्यते ॥