क्ते नित्यार्थे

6-2-61 क्ते नित्यार्थे प्रकृत्या पूर्वपदम् अन्यतरस्याम्

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

क्तान्त उत्तरपदे नित्यार्थे समासे पूर्वपदमन्यतरस्यां प्रकृतिस्वरं भवति। नित्य॑प्रहसितः, नि॒त्य॒प्॒रह॒सि॒तः। स॒त॒तप्॑रहसितः, स॒त॒त॒प्॒रह॒सि॒तः। <<कालाः>> २.१.२८ इति द्वितीयासमासोऽयम्। नित्यशब्दः <<त्यब्नेर्ध्रुवे>> (४.२.१०४ वा०) इति त्यबन्त आद्युदात्तः। सततम् इति यदा भावे क्त स्तदा थाथादिस्वरेणान्तोदात्तः। नित्यार्थ इति किम् ? मु॒हू॒र्त॒प्॒रह॒सि॒तः॥

Siddhanta Kaumudi

Up

क्तान्ते परे नित्यार्थे समासे पूर्वं वा प्रकृत्या । नित्यप्रहसितः । कालाः <{SK690}> इति द्वितीयासमासोऽयम् । नित्यशब्दस्त्यबन्त आद्युदात्तः । हसित इति थाथादिस्वरेणान्तोदात्तः । नित्यार्थे किम् । मुहूर्तप्रहसितः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

Padamanjari

Up

एनित्यशब्द आभीक्ष्ण्ये कौटस्थ्ये च वर्तते , इह त्वाभीक्ष्ण्ये। कृत एतत् क्त इत्युच्यते, क्तश्च इत्युच्यते, क्तश्च धातोर्विधीयते, धातुश्च क्रियावचनः, क्रियायाः क्षणिकत्वात्कौटस्थ्यं नोपपद्यते, तस्मादाभीक्ष्ण्य नित्यशब्दः । द्वतीयासमासोऽयमिति । द्वितीय पुनरत्यन्तसंयोगे अथ वा - कर्णणि, कालभावाध्वगतव्याः कर्मसंज्ञा ह्यकर्मणाम् इति तततम् इति भावे क्त इत्यादि । यदा तु कर्मणि क्तः तदा गतिरनन्तरः इति पूर्वपदप्रकृतिस्वरेणाद्यौदातो भवति । समासस्वरस्य द्वीतियापुर्वपदप्रकृतिस्वरो बाधकः, तस्य थाथादिस्वरः, तस्यापवादः ॥