षष्ठी प्रत्येनसि

6-2-60 षष्ठी प्रत्येनसि प्रकृत्या पूर्वपदम् अन्यतरस्याम् राजा

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

राजेति वर्तते, अन्यतरस्यामिति च। षष्ठ्यन्तो राजशब्दः पूर्वपदं प्रत्येनस्युत्तरपदेऽन्यतरस्यां प्रकृतिस्वरं भवति। राज्ञः प्रत्येना राज॑प्रत्येनाः, रा॒ज॒प्॒रत्ये॒नाः। षष्ठीति किम् ? राजा चासौ प्रत्येनाश्च रा॒ज॒प्॒रत्ये॒नाः॥

Siddhanta Kaumudi

Up

षष्ठ्यन्तो राजा प्रत्येनसि परे वा प्रकृत्या । राजप्रत्येनाः । षष्ठी किम् । अन्यत्र न ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

Padamanjari

Up

राज्ञः प्रत्येना इति । षष्ठ।ल आकोशे इत्युलुक् ॥