राजा च

6-2-59 राजा च प्रकृत्या पूर्वपदम् अन्यतरस्याम् कर्मधारये ब्राह्मणकुमारयोः

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

राजा च पूर्वपदं ब्राह्मणकुमारयोरुत्तरपदयोः कर्मधारये समासेऽन्यतरस्यां प्रकृतिस्वरं भवति। राज॑ब्राह्मणः,रा॒ज॒ब्रा॒ह्म॒णः। राज॑कुमारः, रा॒ज॒कु॒मा॒रः। कर्मधारय इत्येवराज्ञो ब्राह्मणो रा॒ज॒ब्रा॒ह्म॒णः। रा॒ज॒कु॒मा॒रः। पृथग्योगकरणमुत्तरार्थम्॥

Siddhanta Kaumudi

Up

ब्राह्मणकुमारयोः परतो वा प्रकृत्या कर्मधारये । राजब्राह्मणः । राजकुमारः । योगविभाग उत्तरार्थः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

Padamanjari

Up

राजाव्राह्मण इति । राजशब्दो ब्राह्मणे ताद्धूर्म्यादूर्तत इति सामानाधिकरण्यात्कर्मधारयः, राजशब्दः कनिन्प्रत्ययान्तत्वादद्यौदातः । पृथग्योगकरणमुतरार्थमिति । उतरो विधी राजशब्दस्यैव यथा स्यात्, आर्यशब्दस्य म भूत् । यथासङ्ख्याभावोऽपि पृथग्योगकरणस्य प्रयोजनम्, ततु नोक्तमित्येतावत् ॥