6-2-5 दायाद्यं दायादे प्रकृत्या पूर्वपदम् तत्पुरुषे
तत्पुरुषे समासे दायादशब्द उत्तरपदे दायाद्यवाचि पूर्वपदं प्रकृतिस्वरं भवति। वि॒द्यादा॑यादः। धन॑दायादः। <<संज्ञायां समजनिषद०>> ३.३.९९ इति विद्याशब्दः क्यप्प्रत्ययान्तः। उदात्त इति च तत्र वर्तते। तेनायमन्तोदात्तः <<कृपृवृजिमन्दिनिधाञ्भ्यः क्युः>> (द०उ० ५.२६) इति बहुलवचनात् केवलादपि धाञः क्युप्रत्ययस्तेन धनशब्दः प्रत्ययस्वरेणाद्युदात्तः। अथ विद्यादायाद इति केन षष्ठी ? <<स्वामीश्वराधिपतिदायाद०>> २.३.३९ इति। यद्येवं <<प्रतिपदविधाना च षष्ठी न समस्यते>> (२.२.१० वा०) इति समासप्रतिषेधः प्राप्नोति। एवं तर्हि शेषलक्षणैवात्र षष्ठी, तस्यास्तु सप्तमी विधीयमाना बाधिका मा विज्ञायीति पुनरभ्यनुज्ञायते। दायाद्यमिति किम् ? प॒र॒म॒दा॒या॒दः। अत्र समासान्तोदात्तत्वमेव भवति॥
तत्पुरुषे प्रकृत्या । धनदायादः । धनशब्दः क्युप्रत्ययान्तः प्रत्ययस्वरेणाद्युदात्तः । दायाद्यं किम् । परमदायादः ॥
दातव्यो दायः - भागः, अंश इत्यर्थः । दायमादते दायादः, मूलविभुजादित्वात्कः, दायादास्य भावो दायाद्यम् । किं पुनस्तत् दायास्यादानं तत्सम्बन्धो वा। इह तु लक्ष्यमाणोऽऽदीयमाने एव दायद्यशब्दो वर्तते । अथेत्यादि । वक्ष्यमाणोऽभिप्रायः । तमेवाविष्करोति - यद्येवमिति । शेषलक्षणौवेति। सामान्यलक्षणैवात्र षष्ठी, न प्रतिपदमित्येवशब्दस्यर्थः । यदि शेषलक्षणैवात्र षष्ठी, किमर्थं पुनस्तत्र विधानम् इत्याह - तास्यास्त्विति । सप्तमी तावद्विधेया, अप्राप्तत्वात् । तत्र यदि सैव विधीयेत, ततोऽसौ विशेषविहितत्वात् षष्ठ।ल बाधिका विज्ञायेत, मैवं विज्ञायीति पुनः सैव शेषलक्षणा षष्ठ।ल्भ्यनुज्ञायते, न त्वपूर्वा विधीयत इत्यर्थः ॥