6-2-58 आर्यः ब्राह्मणकुमारयोः प्रकृत्या पूर्वपदम् अन्यतरस्याम् कर्मधारये
आर्यशब्दः पूर्वपदं ब्राह्मणकुमारशब्दयोः कर्मधारये समासेऽन्यतरस्यां प्रकृतिस्वरं भवति। आ॒॑र्यब्राह्मणः, आ॒र्य॒ब्रा॒ह्म॒णः। आ॒॑र्यकुमारः, आ॒र्य॒कु॒मा॒रः। आर्यशब्दो ण्यदन्तोऽन्तस्वरितः। आर्य इति किम्? प॒र॒म॒ब्रा॒ह्म॒णः। प॒र॒म॒कु॒मा॒रः। ब्राह्मणकुमारयोरिति किम् ? आ॒र्य॒क्ष॒त्रि॒यः। कर्मधारय इत्येव — आर्यस्य ब्राह्मणो आ॒र्य॒ब्रा॒ह्म॒णः॥
आर्यकुमारः । आर्यब्राह्मणः । आर्यो ण्यदन्तत्वादन्तस्वरितः । आर्यः किम् । परमब्राह्मणः । ब्राह्मणादीति किम् । आर्यक्षत्रियः । कर्मधारय इत्येव ॥