6-2-57 कतरकतमौ कर्मधारये प्रकृत्या पूर्वपदम् अन्यतरस्याम्
कतरशब्दः कतमशब्दश्च पूर्वपदं कर्मधारये समासेऽन्यतरस्यां प्रकृतिस्वरं भवति। क॒त॒रक॑ठः क॒त॒र॒क॒ठः। क॒त॒मक॑ठः, क॒त॒म॒क॒ठः। कर्मधारयग्रहणमुत्तरार्थम्, इह तु प्रतिपदोक्तत्वादेव सिद्धम्॥
वा प्रकृत्या । कतरकठः । कर्मधारयग्रहणमुत्तरार्थम् । इह तु प्रतिपदोक्तत्वादेव सिद्धम् ॥